सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान्
विजित्यकलिजान् दोषान् यान्ति ते परमं पदम्
अनेकदोषदुष्टस्य कलेरेष महान् गुणः
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत्
प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम्
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात्
महादेवनमस्कारो ध्यानं दानमिति श्रुतिः
समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम्
तेषां दानं तपो यज्ञो वृथा जीवितमेव च
त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः
नमः शोमाय रुद्राय महाग्रासाय हेतवे
महादेवं महायोगमीशानं चाम्बिकापतिम्
योगिनां कुरुमाचार्यं योगिगम्यं पिनाकिनम्
शाश्वतं सर्वगं ब्रह्मण्यं ब्राह्मणप्रियम्
एकमूर्ति महामूर्ति वेदवेद्यं दिवस्पतिम्
कालाग्निं कालदहनं कामदं कामनाशनम्
उग्रं पशुपतिं भीमं भास्करं तमसः परम्
अतीतानागतानां वै यावन्मन्वन्तरक्षयः
व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत
बभार परमां भक्तिमीशाने ऽव्यभिचारिणीम्
सर्वज्ञं सर्वकर्तारं स्क्षाद् विष्णुं व्यवस्थितम्
कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः
त्रैलोक्ये शङ्करे नूनं भक्तः परपुरञ्जय
प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम्
स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः
व्रजस्व परया भक्त्या शरण्यं शरणं शिवम्
जगाम शङ्करपुरीं समाराधयितुं भवम्
संत्यज्य सर्वकर्माणि तद्भक्तिपरमो ऽभवत्
मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम्