चौराश्चौरस्य हर्तारो हर्तुर्हर्ता तथापरः
अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम्
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे
ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः
ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु
शूद्रानभ्यर्चयन्त्यल्पश्रुतभग्यबलान्विताः
सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः
सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ
पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः
यतयश्च भविष्यन्ति शतशो ऽथ सहस्त्रशः
गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान्
दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः
वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके
सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु
वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः
तमसाविष्टमनसो वैडालवृत्तिकाधमाः
न देवता भवेन्नृणां देवतानां च दैवतम्
श्रौतस्मार्तप्रतिष्ठार्थं भक्तानां हितकाम्यया
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान्
विजित्यकलिजान् दोषान् यान्ति ते परमं पदम्
अनेकदोषदुष्टस्य कलेरेष महान् गुणः
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत्
प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम्
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात्
महादेवनमस्कारो ध्यानं दानमिति श्रुतिः
समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम्
तेषां दानं तपो यज्ञो वृथा जीवितमेव च
त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः