अपां भूणेश्च संयोगादोषध्यस्तास्तदाभवन्
ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे
अवश्यं भाविनार्ऽथे न त्रेतायुगवशेन वै
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम्
पितामहनियोगेन दुदोह पृथिवीं पृथुः
वसुदारधनाद्यांस्तु बलात् कालबलेन तु
ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च
यज्ञप्रवर्तनं चैव पशुहिंसाविवर्जितम्
रागो लोभस्तथा युद्धं तत्त्वानामविनिश्चयः
वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः
सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित्
इतिहासपुराणानि धर्मशास्त्राणि सुव्रत
वाङ्मनः कायजैर्दुः सैर्निर्वेदो जायते नृणाम्
विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम्
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे
साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः
अनावृष्टिभयं घोरं देशानां च विपर्ययः
अनृतं वदन्ति ते लुब्धास्तिष्ये जाताः सुदुः प्रजाः
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम्
यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः
भविष्यति कलौ तस्मिञ् शयनासनभोजनैः
भ्रूणहत्या वीरहत्या प्रजायेते नरेश्वर
अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः
आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे
स्वधर्मे ऽभिरुचिर्नैव ब्राह्मणानां प्रिजायते
बहुयाचनको लोको भविष्यति परस्परम्
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे
शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते