भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः
पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात्
पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः
प्रणम्य देवमीशानं युगधर्मान् सनातनान्
न शक्यते मया पार्थ विस्तरेणाभिभाषितुम्
तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे
द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः
पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक्
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति
प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे
ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः
पर्वतोदधिवासिन्यो ह्यनिकेतः परन्तप
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम्
प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः
रागलोभात्मको भावस्तदा ह्याकस्मिको ऽभवत्
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः
अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च
अमाक्षिकं महावीर्यं पुटके पुटके मधु
हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः
वृक्षांस्तान् पर्यगृह्णन्त मधु चामाक्षिकं बलात्
प्रणष्टामधुना सार्धं कल्पवृक्षाः क्वचित् क्वचित्
द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा
वार्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः
अवहन् वृष्टिसंतत्या स्त्रोतः स्थानानि निम्नगाः