न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम्
तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम्
विनिन्द्य देवमीशानं स याति नरकायुतम्
कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः
भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः
शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः
ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः
संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम्
न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते
एषां स्वभावं सूताद्य कथयस्व समासतः
पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः
अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम्
पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदार्ऽजुनः
इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो
इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण
उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः
ततो गच्छामि देवस्य वाराणसीं महापुरीम्
भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः
सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे
भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः
पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात्
पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः
प्रणम्य देवमीशानं युगधर्मान् सनातनान्
न शक्यते मया पार्थ विस्तरेणाभिभाषितुम्
तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे
द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः
पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक्
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति