उवाच मां महादेवः प्रीतः प्रीतेन चेतसा
वत्स वत्स हरे विश्वं पालयैतच्चराचरम्
सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः
भविष्यत्येष भगवांस्तव पुत्रः सनातनः
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः
अनुगृह्य च मां देवस्तत्रैवान्तरधीयत
लिङ्ग तल्लयनाद् ब्रह्मन् ब्रह्मणः परमं वपुः
एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः
येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान वक्षुषः
महादेवाय रुद्राय देवदेवाय लिङ्गिने
विभीषणाय शान्ताय स्थाणवे हेतवे नमः
शङ्कराय महेशाय गिरीशाय शिवाय च
संसारसागरादस्मादचिरादुत्तरिष्यसि
जगाम मनसा देवमीशानं विश्वतोमुखम्
जगाम चेप्सितं देशं देवदेवस्य शूलिनः
शृणुयाद् वा पठेद् वापि सर्वपापैः प्रमुच्यते
वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः
एवमाह महायोगी कृष्णद्वैपायनः प्रभुः
अजीजनन्महात्मानं साम्बमात्मजमुत्तमम्
तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू
विजित्य लीलया शक्रं जित्वा बाणं महासुरम्
चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम्
आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम्
आसनेषूपविष्टान् वै सह रामेण धीमता
कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः
भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः
येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः
तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे
विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम्
तेषां नारायणे भक्तिर्भविष्यति कलौ युगे