अन्तमस्य विजानीम ऊर्ध्वं गच्छे ऽहमित्यजः
पितामहो ऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम्
मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम्
प्रह्वाञ्जलिपुटोपेतौ शंभुं तुष्टुवतुः परम्
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
भाति देवो महायोगी सूर्यकोटिसमप्रभः
सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः
व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः
पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम्
वामपार्श्वे च मे विष्णुः पालको हृदये हरः
आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखो ऽभवत्
ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ
भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे
उवाच मां महादेवः प्रीतः प्रीतेन चेतसा
वत्स वत्स हरे विश्वं पालयैतच्चराचरम्
सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः
भविष्यत्येष भगवांस्तव पुत्रः सनातनः
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः
अनुगृह्य च मां देवस्तत्रैवान्तरधीयत
लिङ्ग तल्लयनाद् ब्रह्मन् ब्रह्मणः परमं वपुः
एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः
येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान वक्षुषः
महादेवाय रुद्राय देवदेवाय लिङ्गिने