पूजयामि तथापीशं जानन्नैतत् परं शिवम्
ततो ऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम्
तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम्
ततो ऽहमात्ममीशानं पूजयाम्यात्मनैव तु
नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः
ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम्
वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम्
प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः
पूजयावो महादेवं लोकानां हितकाम्यया
प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम्
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः
सहस्त्रबाहुर्युक्तात्मा शयितो ऽहं सनातनः
कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम्
कृष्णाजिरधरं देवमृग्यजुः सामभिः स्तुतम्
व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः
अहं कर्ता हि लोकानां स्वयंभूः प्रपितामहः
अहं कर्तास्मि लोकानां संहर्ता च पुनः पुनः
प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम्
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम्
अन्तमस्य विजानीम ऊर्ध्वं गच्छे ऽहमित्यजः
पितामहो ऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम्
मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम्
प्रह्वाञ्जलिपुटोपेतौ शंभुं तुष्टुवतुः परम्
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये