चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः
भवन्ति षट्सहस्त्राणि श्लोकानामत्र संख्यया
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः
वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः
तामहं वर्तयिष्यामि व्यासेन कथितां पुरा
मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम्
बभार मन्दरं देवो देवानां हितकाम्यया
कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम्
जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः
मोहिताः सह शक्रेण श्रियो वचनमब्रुवन्
कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम्
प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान्
माया मम प्रियानन्ता ययेदं मोहितं जगत्
मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च
विज्ञायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम्
ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम
प्रागेव मत्तः संजाता श्रीकल्पे पद्मवासिनी
कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम्
मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः
को वा तरति तां मायां दुर्जयां देवनिर्मिताम्
अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान्
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम्
लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि
वैवस्वते ऽन्तरे ऽतिते कार्यार्थं मां प्रवेक्ष्यसि
कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह
मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः
विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः