लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे तदा
शङ्खान् सहस्त्रशो दध्मुर्वोणावादान् वितेनिरे
अगायन् मधुरं गानं स्त्रियो यौवनशालिनः
मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि
वरासने महायोगी भाति देवीभिरन्वितः
आत्मजैरभितो मुख्यैः स्त्रीसहस्त्रैश्च संवृतः
भ्राजते मालया देवो यथा देव्या समन्वितः
महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः
ननामोत्थाय शिरसा स्वासनं च ददौ हरिः
विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान्
स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठत् कृताञ्जलिः
तर्पयामास देवेशो देवेशो देवान् मुनिगणान् पितॄन्
पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम्
भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च
कथाः पौराणिकीः पुण्याश्चक्रे पुत्रादिभिर्वृतः
मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः
ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च
भारावतरणार्थाय जातो वृष्णिकुले प्रभुः
शृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव
तथापि देवमीशानं पूजयामि सनातनम्
पूजयामि तथापीशं जानन्नैतत् परं शिवम्
ततो ऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम्
तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम्
ततो ऽहमात्ममीशानं पूजयाम्यात्मनैव तु
नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः
ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम्
वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम्
प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः
पूजयावो महादेवं लोकानां हितकाम्यया