बहूनि कृत्वा रूपाणि पूरयामास लीलया
रेमे नारायणः श्रीमान् मायया मोहयञ्जगत्
बभूवुर्विह्वला भीता गोविन्दविरहे जनाः
कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम्
आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः
आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः
हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम्
दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः
प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः
रमते ऽद्य महायोगीं तं दृष्ट्वाहमिहागतः
जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम्
वरासनस्थं गोविन्दं देवदेवान्तिके हरिम्
महादेवगणैः सिद्धैर्योगिभिः परिवारितम्
निवेदयामास हरेः प्रवृत्तिं द्वारके पुरे
आजगाम पुरीं कृष्णः सो ऽनुज्ञातो हरेण तु
वचोभिरमृतास्वादैर्मानितो मधुसूदनः
अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम्
ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम्
निशेव चन्द्ररहिता विना तेन चकाशिरे
मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम्
लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे तदा
शङ्खान् सहस्त्रशो दध्मुर्वोणावादान् वितेनिरे
अगायन् मधुरं गानं स्त्रियो यौवनशालिनः
मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि
वरासने महायोगी भाति देवीभिरन्वितः
आत्मजैरभितो मुख्यैः स्त्रीसहस्त्रैश्च संवृतः
भ्राजते मालया देवो यथा देव्या समन्वितः
महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः
ननामोत्थाय शिरसा स्वासनं च ददौ हरिः
विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान्