पपात पादयोर्विप्रा देवदेव्योः स दण्डवत्
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः
त्वमेव दाता सर्वेषां कामानां कामिनामिह
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम
महादेवं महायोगं स्वेन योगेन केशव
उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम्
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर
देवीमालोक्य गिरिजां केशवं परिषस्वजे
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव
प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः
नावयोर्विद्यते भेद एवं पश्यन्ति सूरयः
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम्
आशिषं शिरसाहृङ्णाद् देवो ऽप्याह महेश्वरः
र् जगाम कैलासगिरिं गिरीशः
रराम भगवान् सोमः केशवेन महेश्वरः
पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम्
किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम्
दधानमुरसा मालां वैजयन्तीमनुत्तमाम्
पद्माङ्घ्रिनयनं चारु सुस्मितं सुगतिप्रदम्
भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे
सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम्
मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः
दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः
संप्रेक्ष्य देवकीसूनुं सुन्दर्यः काममोहिताः
संप्रेक्ष्य संस्थिताः काश्चित् पपुस्तद्वदनामृतम्
भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम्
स्वात्मानं बूषयामासुः स्वात्मगैरपि माधवम्
चुचुम्बुर्वदनाम्भोजं हरेर्मुग्धमृगेक्षणाः
प्रापयामासुर्लोकादिं मायया तस्य मोहिताः