कुमारमग्निपतिमं सशाखम्
स्वायंभुवं चापि मनुं ददर्श
स्वात्मन्यथात्मानमसौ विचिन्त्य
त्वामेव सर्व प्रवदन्ति सन्तः
सत्वामेकं शरणमुपैमि देवमीशम्
त्वामेकं शरणमुपैमि देवमीशम्
स्मृत्वा ते पदयुगलं भवत्प्रसादात्
नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरन्तंशिवम्
महादेवाय ते नित्यमीशानाय नमो नमः
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने
नागयज्ञोपवीताय नमस्ते वह्निरेतसे
नमो मुक्ताट्टहासाय भीमाय च नमो नमः
नमो भैरववेषाय हराय च निषङ्गिणे
नमो ऽम्बिकाधिपतये पशूनां पतये नमः
नरनारीशरीराय सांख्ययोगप्रवर्तिने
कुमारगुरवे तुभ्यं देवदेवाय ते नमः
मृगव्याधाय महते ब्रह्माधिपतये नमः
योगिने योगगम्याय योगमायाय ते नमः
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत्
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः
त्वमेव दाता सर्वेषां कामानां कामिनामिह
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम
महादेवं महायोगं स्वेन योगेन केशव
उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम्
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर
देवीमालोक्य गिरिजां केशवं परिषस्वजे
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव