सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम्
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते
य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत्
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः
सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः
सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः
अहं वै पालयामीदं संहरिष्यति शूलभृत्
रजः सत्त्वतमोयोगात् परस्य परमात्मनः
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत्