विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम्
यद् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः
तादृशस्याथ भवतः किमागमनकारणम्
व्याजहार महायोगी वचनं प्रणिपत्य तम्
संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः
मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम्
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः
ध्यायन्तो ऽत्रासते देवं जापिनस्तापसाश्च ये
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः
दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम्
अविन्दत् पुत्रकान् रुद्रात् सुरभिर्भक्तिसंयुता
दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम्
पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु
द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम्
चकार तन्नियोगेन योगशास्त्रमनुत्तमम्
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम्
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे
तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः
जजाप रुद्रमनिशं शिवैकाहितमानसः
अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः
देव्या महादेवमसौ ददर्श
सहस्त्रसूर्यप्रतिमं ददर्श
प्राणेश्वरं शंभुमसौ ददर्श
तमादिदेवं पुरतो ददर्श
शङ्खासिचक्रार्पितहस्तमाद्यम्
पितामहं लोकगुरुं दिवस्थम्