अनादिरक्षयो ऽनन्तो महाभूतो महेश्वरः
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः
चकार देवकीसूनुर्देवर्षिपितृतर्पणम्
लिङ्गानि पूजयामास शंभोरमिततेजसः
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम्
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम्
जटाचीरधरं शान्तं ननाम शिरसा मुनिम्
आसने चासयामास योगिनां प्रथमातिथिम्
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम्
यद् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः
तादृशस्याथ भवतः किमागमनकारणम्
व्याजहार महायोगी वचनं प्रणिपत्य तम्
संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः
मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम्
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः
ध्यायन्तो ऽत्रासते देवं जापिनस्तापसाश्च ये
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः
दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम्
अविन्दत् पुत्रकान् रुद्रात् सुरभिर्भक्तिसंयुता
दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम्
पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु
द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम्
चकार तन्नियोगेन योगशास्त्रमनुत्तमम्
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम्