नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत्
प्रागेव कंसस्तान् सर्वान् जघान मुनिपुङ्गवाः
ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः
असूत रामं लोकेशं बलभद्रं हलायुधम्
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम्
तस्यामुत्पादयामास पुत्रौ द्वौ निशठोल्मुकौ
बभूवुरात्मजास्तासु शतशो ऽथ सहस्त्रशः
चारुश्रवाश्चारुयशाः प्रद्युम्नः शङ्ख एव च
विशिष्टाः सर्वपुत्राणां संबभूवुरिम् सुताः
जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता
सुरेशसदृशं पुत्रं देहि दानवसूदन
समारेभे तपः कर्तुं तपोनिधिररिन्दमः
दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः
तताप घोरं पुत्रार्थं निदानं तपसस्तपः
चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम्
आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः
शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः
ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम्
विमलस्वादुपानीयैः सरोभिरुपशोभितम्
ऋषिकैरृषिपुत्रैश्च महामुनिगणैस्तथा
योगिभिर्ध्याननिरतैर्नासाग्रगतलोचनैः
नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः
प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः
सेवितं तापसैर्नित्य ज्ञानिभिर्ब्रह्मचारिभिः
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी
प्रणामेनाथ वचसा पूजयामास माधवः
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम्
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम्
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम्
अमूर्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः