जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च ह
उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम्
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः
ख्यायते तस्य नामानुरनोरानकदुन्दुभिः
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः
गुरोरभ्यधिकं विप्राः कामरूपित्वमेव च
पूजयामास गानेन स्थाणुं त्रिदशपूजितम्
कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि
अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम्
रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम्
शिक्षयामास विधिवद् गानविद्यां च कन्यकाम्
उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम्
वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान्
पूजयामास गानेन देवं त्रिपुरनाशनम्
सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम्
सुषेणवीरसुग्रीवसुभोजनरवाहनाः
पुनर्वसुश्चाभिजितः संबभूवाहुकः सुतः
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ
देवकी चापि तासां तु वरिष्ठाभूत् सुमध्यमा
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च
तस्य शूरः शमिस्तस्मात् प्रतिक्षत्रस्ततो ऽभवत्
स शूरस्तत्सुतो धीमान् वसुदेवो ऽथ तत्सुतः
बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः
असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम्
हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः
बभूत तस्यां देवक्यां रोहिण्यामपि माधवः