त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम्
शूलेनोरसि निर्भिद्य पातयामास तं भुवि
इदानीं निर्भयस्तूर्णं स्थाने ऽस्मिन् राक्षसो हतः
पुरीं जगाम विप्रेन्द्राः पुरन्दरपुरोपमाम्
ईजे च विविधैर्यज्ञैर्हेमैर्देवीं सरस्वतीम्
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च
महात्मा दाननिरतो धनुर्वेदविदां वरः
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम्
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम्
पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम्
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम्
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः
धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च
वृष्णेः सुमित्रो बलवाननमित्रः शिनस्तथा
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः
सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतो ऽभवत्
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगन्धरः
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च ह
उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम्
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः
ख्यायते तस्य नामानुरनोरानकदुन्दुभिः
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः
गुरोरभ्यधिकं विप्राः कामरूपित्वमेव च
पूजयामास गानेन स्थाणुं त्रिदशपूजितम्