पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयो ऽभवत्
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः
तस्याभूद् रुक्मकवचः परावृत् तस्य सत्तमाः
तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ
धृतिस्तस्याभवत् पुत्रः संस्तस्तस्याप्यभूत् सुतः
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतो ऽनलः
तेषां प्रधानो ज्योतिष्मान् वपुष्मांस्तत्सुतो ऽभवत्
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः
वृष्णेर्निवृत्तिरुत्पन्नो दशार्हस्तस्य तु द्विजाः
जैमूतिरभवद् वीरो विकृतिः परवीरहा
दानधर्मरतो नित्यं सम्यक्शीलपरायणः
दुद्राव महातविष्टो भयेन मुनिपुङ्गवाः
दुर्योधनो ऽग्निसंकाशः शूलासक्तमहाकरः
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम्
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम्
पपात दण्डवद् भूमौ त्वामहं शरणं गतः
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम्
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम्
पाहि मां परमेशानि भीतं शरणमागतम्
हन्तुं समागतः स्थानं यत्र देवी सरस्वती
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम्
शूलेनोरसि निर्भिद्य पातयामास तं भुवि
इदानीं निर्भयस्तूर्णं स्थाने ऽस्मिन् राक्षसो हतः
पुरीं जगाम विप्रेन्द्राः पुरन्दरपुरोपमाम्
ईजे च विविधैर्यज्ञैर्हेमैर्देवीं सरस्वतीम्
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च
महात्मा दाननिरतो धनुर्वेदविदां वरः
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम्