दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः
रेमे कृतार्थमात्मानं जानानः सुचिरं तया
किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप
कण्वस्य दर्शनं चैव मालापहरणं तथा
शापं दास्यति ते कण्वो ममापि भवतः प्रिया
न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः
सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा
धिङ्मामिति विनिश्चित्यतपः कर्तुं समारभत्
भूय एव द्वादशकं वायुभक्षो ऽभवन्नृपः
वासमप्सरसा भूयस्तपोयोगमनुत्तमम्
कर्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत्
आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः
दृष्ट्वा विश्वेश्वरं लिङ्गङ्किल्बिषान्मोक्ष्यसे ऽखिलात्
वाराणस्यां हरं दृष्ट्वा पापान्मुक्तो ऽभवत् ततः
याजयामास तं कण्वो याचितो घृणया मुनिः
बभूव जातमात्रं तं राजानमुपतस्थिरे
कन्या जगृहिरे सर्वा जन्धर्वदयिता द्विजाः
वंशः पापहरो नृणां क्रोष्टोरपि निबोधत
तस्य पुत्रो महान् स्वातिरुशद्गुस्तत्सुतो ऽभवत्
अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः
पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयो ऽभवत्
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः
तस्याभूद् रुक्मकवचः परावृत् तस्य सत्तमाः
तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ
धृतिस्तस्याभवत् पुत्रः संस्तस्तस्याप्यभूत् सुतः
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतो ऽनलः
तेषां प्रधानो ज्योतिष्मान् वपुष्मांस्तत्सुतो ऽभवत्
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः
वृष्णेर्निवृत्तिरुत्पन्नो दशार्हस्तस्य तु द्विजाः
जैमूतिरभवद् वीरो विकृतिः परवीरहा