सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति
शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक्
दुर्जयस्तस्य पुत्रो ऽबूत् सर्वशास्त्रविशारदः
पतिव्रतासीत् पतिना स्वधर्मपरिपालिका
अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम्
प्रोवाच सुचिरं कालं देवि रन्तुं मयार्ऽहसि
रेमे तेन चिरं कालं कामदेवमिवापरम्
गमिष्यामि पुरीं रम्यां हसन्ती साब्रवीद् वचः
प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः
आगमिष्यामि भूयो ऽत्र तन्मे ऽनुज्ञातुमर्हसि
नान्ययाप्सरसा तावद् रन्तव्यं भवत् पुनः
गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतो ऽभवन्नृपः
भीतं प्रसन्नया प्राह वाचा पीनपयोधरा
तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्तये त्विदम्
नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा
भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति
गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम्
जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः
भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया
उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति
चकार सुमहद् युद्धं मालामादातुमुद्यतः
जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात्
बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम्
जगाम शैलप्रवरं हेमकूटमिति श्रुतम्
कामं संदधिरे घोरं भूषितं चित्रमालया
न पश्यति स्मताः सर्वागिरिशृङ्गाणिजग्मिवान्
देवलोकं महामेरुं ययौ देवपराक्रमः
भेजे शृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः