न दानवं चालयितुं शशाकान्तकसंनिभम्
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम्
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम्
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात्
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः
पृथिव्यां पातयामास शिरो ऽद्रिशिखराकृति
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन्
कार्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः
समावेश्यासने रम्ये पूजयामास भावतः
निपातितो मया संख्ये विदेहो दानवेश्वरः
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः
कथं केन विधानेन संपूज्यो हरिरीश्वरः
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते
अकामहतभावेन समाराध्यो न चान्यथा
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम्
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम्
गौतमो ऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः
याजयामास भूतादिमादिदेवं जनार्दनम्
आविरासीत् स भगवान् तदद्भुतमिवाभवत्
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति
शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक्
दुर्जयस्तस्य पुत्रो ऽबूत् सर्वशास्त्रविशारदः
पतिव्रतासीत् पतिना स्वधर्मपरिपालिका
अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम्
प्रोवाच सुचिरं कालं देवि रन्तुं मयार्ऽहसि
रेमे तेन चिरं कालं कामदेवमिवापरम्
गमिष्यामि पुरीं रम्यां हसन्ती साब्रवीद् वचः