गत्वा सर्वे सुसंरब्धाः सप्तर्षोणां तदाश्रमम्
या यस्याभिमता पुंसः सा हि तस्यैव देवता
विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक्
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते
रक्षसां शङ्करो रुद्रः किंनराणां च पार्वती
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः
वैखानसानामर्कः स्याद् यतीनां च महेश्वरः
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः
तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति
पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे
भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ
शूलमादाय सूर्याभं नादयन् वै दिशो दश
तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः
वारयामास घोरात्मा कल्पान्ते भैरवो यथा
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च
न दानवं चालयितुं शशाकान्तकसंनिभम्
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम्
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम्
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात्
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः
पृथिव्यां पातयामास शिरो ऽद्रिशिखराकृति
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन्
कार्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः
समावेश्यासने रम्ये पूजयामास भावतः
निपातितो मया संख्ये विदेहो दानवेश्वरः