तस्य रामो ऽभवन्मृत्युर्जामदग्न्यो जनार्दनः
कृतास्त्रा बलिनः शूरा धर्मात्मानो नमस्विनः
जयध्वजश्च बलवान् नारायणपरो नृपः
रुद्रभक्ता महात्मानः पूजयन्ति स्म शङ्करम्
जगाम शरणं विष्णुं दैवतं धर्मतत्परः
ईश्वराराधनरतः पितास्माकमभूदिति
विष्णोरंशेन संभूता राजानो यन्महीतले
पूजनीयो यतो विष्णुः पालको जगतो हरिः
तिस्त्रस्तु मूर्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः
सृजेद् ब्रह्मा रजोमूर्तिः संहरेत् तामसो हरः
आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः
प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः
तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः
संहरेद् विद्यया सर्वं संसारं शूलभृत् तया
सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः
मोचयेत् सत्त्वसंयुक्तः पूजयेशं ततो हरम्
स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते
आराधनं परो धर्मो पुरारेरमितौजसः
यदर्जुनो ऽस्मज्जनकः स्वधर्मं कृतवानिति
प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत्
गत्वा सर्वे सुसंरब्धाः सप्तर्षोणां तदाश्रमम्
या यस्याभिमता पुंसः सा हि तस्यैव देवता
विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक्
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते
रक्षसां शङ्करो रुद्रः किंनराणां च पार्वती
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः
वैखानसानामर्कः स्याद् यतीनां च महेश्वरः
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः
तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति