तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः
सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः
सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते
तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः
शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः
स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम्
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः
यतिर्ययातिः संयातिरायातिः पञ्चको ऽश्वकः
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत्
पुरुमेव कनीयासं पितुर्वचनपालकम्
प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत्
राजापि दारसहितो नवं प्राप महायशाः
सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नालो ऽजितोरघुः
सुताः शतजितो ऽप्यासंस्त्रयः परमधार्मिकाः
हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः
धर्मनेत्रस्य कीर्तिस्तु संजितस्तत्सुतो ऽभवत्
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः
धनकस्य तु दायादाश्चत्वारो लोकसम्मताः
कृतौजाश्च चतुर्थो ऽभूत् कार्तवीर्योर्ऽजुनो ऽभवत्
तस्य रामो ऽभवन्मृत्युर्जामदग्न्यो जनार्दनः
कृतास्त्रा बलिनः शूरा धर्मात्मानो नमस्विनः
जयध्वजश्च बलवान् नारायणपरो नृपः
रुद्रभक्ता महात्मानः पूजयन्ति स्म शङ्करम्
जगाम शरणं विष्णुं दैवतं धर्मतत्परः
ईश्वराराधनरतः पितास्माकमभूदिति
विष्णोरंशेन संभूता राजानो यन्महीतले
पूजनीयो यतो विष्णुः पालको जगतो हरिः
तिस्त्रस्तु मूर्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः
सृजेद् ब्रह्मा रजोमूर्तिः संहरेत् तामसो हरः