बाढमित्यब्रवीद् वाक्यं तथा रामो ऽपि धर्मवित्
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान्
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम्
दुः खशोकाभिसंतप्तौ बभूवतुररिन्दमौ
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम्
अपश्यदमलां सीतां राक्षसीभिः समावृताम्
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम्
असंशयाय प्रददावस्यै रामाङ्गुलीयकम्
मेने समागतं रामं प्रीतिविस्फारितेक्षणा
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम्
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः
आनयामास तां सीतां वायुपुत्रसहायवान्
स्थापयामास लिङ्गस्थं पूजयामास राघवः
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम्
महापातकसंयुक्तास्तेषां पापं विनश्यतु
दर्शनादेव लिङ्गसल्य नाशं यान्ति न संशयः
यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः
स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति
सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत
अभिषिक्तो महातेजा भरतेन महाबलः
यज्ञेन यज्ञहन्तारमश्वमेधेन शङ्करम्
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः
नलस्तु निषधस्याभून्नभस्तमादजायत
तस्य पुत्रो ऽभवद् वीरो देवानीकः प्रतापवान्