सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता
प्रायच्छज्जानकीं सीतां राममेवाश्रिता पतिम्
प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः
अघोषयदमित्रघ्नो लोके ऽस्मिन् द्विजपुङ्गवाः
देवो वा दानवो वापि स सीतां लब्धुमर्हति
भञ्जयामास चादाय गत्वासौ लीलयैव हि
रामः परमधर्मात्मा सेनामिव च षण्मुखः
रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत्
निवारयामास पतिं प्राह संभ्रान्तमानसा
पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः
बाढमित्यब्रवीद् वाक्यं तथा रामो ऽपि धर्मवित्
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान्
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम्
दुः खशोकाभिसंतप्तौ बभूवतुररिन्दमौ
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम्
अपश्यदमलां सीतां राक्षसीभिः समावृताम्
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम्
असंशयाय प्रददावस्यै रामाङ्गुलीयकम्
मेने समागतं रामं प्रीतिविस्फारितेक्षणा
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम्
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः
आनयामास तां सीतां वायुपुत्रसहायवान्
स्थापयामास लिङ्गस्थं पूजयामास राघवः
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम्