भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम्
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम्
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम्
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम्
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा
देशान्तरगतो वाथ मृतपत्नीक एव वा
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम्
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत्
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत्
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम्
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते
धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत्
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः
आर्जवं चानसूया च तीर्थानुसरणं तथा
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः