ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि
त्रयीमयाय रुद्राय कालरूपाय हेतवे
इमानि मे रहस्यानि नामानि शृणु चानघ
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः
जपस्वानन्यचेतस्को मय्यासक्तमना नृप
जपेदामरणाद् रुद्रं स याति परमं पदम्
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत्
क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत्
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम्
भानोः स मण्डलं शुभ्रं ततो यातो महेश्वरम्
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
तस्य पुत्रो ऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः
भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत्
हरितो रोहितस्याथ धुन्धुस्तस्य सुतो ऽभवत्
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान्
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः
ताभ्यामाराधितः प्रादादौर्वाग्निर्वरमुत्तमम्
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः
प्रसादाद् देवदेवस्य महादेवस्य धीमतः
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततो ऽभवत्
सौदासस्तस्य तनयः ख्यातः कल्माषपादकः
अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम्
स हि रामभयाद् राजा वनं प्राप सुदुः खितः
तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत
रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः
जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत्