पुरुषाय पुराणाय योगिनां गुरवे नमः
वरं वरय भद्रं ते वरदो ऽस्मीत्यभाषत
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः
स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम्
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम्
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम्
ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि
त्रयीमयाय रुद्राय कालरूपाय हेतवे
इमानि मे रहस्यानि नामानि शृणु चानघ
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः
जपस्वानन्यचेतस्को मय्यासक्तमना नृप
जपेदामरणाद् रुद्रं स याति परमं पदम्
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत्
क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत्
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम्
भानोः स मण्डलं शुभ्रं ततो यातो महेश्वरम्
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
तस्य पुत्रो ऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः
भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत्
हरितो रोहितस्याथ धुन्धुस्तस्य सुतो ऽभवत्
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान्
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः
ताभ्यामाराधितः प्रादादौर्वाग्निर्वरमुत्तमम्
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः