विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत्
प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम्
चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम्
जगामारण्यमनघस्तपश्चर्तुमनुत्तमम्
कन्दमूलफलाहारो मुन्यन्नैरयजत् सुरान्
जजाप मनसा देवीं सावित्ररिं वेदमातरम्
हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम्
ननाम शिरसा तस्य पादयोर्नाम कीर्तयन्
हिर्ण्यमूर्तये तुभ्यं सहस्त्राक्षाय वेधसे
सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्तये
पुरुषाय पुराणाय योगिनां गुरवे नमः
वरं वरय भद्रं ते वरदो ऽस्मीत्यभाषत
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः
स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम्
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम्
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम्
ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि
त्रयीमयाय रुद्राय कालरूपाय हेतवे
इमानि मे रहस्यानि नामानि शृणु चानघ
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः
जपस्वानन्यचेतस्को मय्यासक्तमना नृप
जपेदामरणाद् रुद्रं स याति परमं पदम्
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत्
क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत्
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम्