इष्ट्वा यज्ञेश्वरं यज्ञैर् गच्छेद वनमथात्मवान्
प्रव्रजेद् विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान्
तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात्
बीजं भगवता येन स देवस्तपसेज्यते
स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः
स सर्वदैवततनुः पूज्यते तपसेश्वरः
तपः सुमहदास्थाय पूज्यते स महेश्वरः
स देवदेवस्तपसा पूजनीयः सनातनः
प्रसीदति महायोगी पूजितस्तपसा परः
नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते
विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत्
प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम्
चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम्
जगामारण्यमनघस्तपश्चर्तुमनुत्तमम्
कन्दमूलफलाहारो मुन्यन्नैरयजत् सुरान्
जजाप मनसा देवीं सावित्ररिं वेदमातरम्
हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम्
ननाम शिरसा तस्य पादयोर्नाम कीर्तयन्
हिर्ण्यमूर्तये तुभ्यं सहस्त्राक्षाय वेधसे
सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्तये
पुरुषाय पुराणाय योगिनां गुरवे नमः
वरं वरय भद्रं ते वरदो ऽस्मीत्यभाषत
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः
स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम्
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम्
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम्