इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः
बुधस्य गत्वा भवनं सोमपुत्रेण संगता
पितॄणां तृप्तिकर्तारं बुधादिति हि नः श्रुतम्
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत
सर्वे ते ऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम्
ज्येष्ठः पुत्रशतस्यापि दश पञ्च च तत्सुताः
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान्
अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयात् सुतम्
अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम्
तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम्
तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम्
आराधयन्महायोगं वासुदेवं सनातनम्
निर्मिता येन श्रावस्तिर्गौडदेशे महापुरी
धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम्
दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च
हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः
युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि
मान्धातारं महाप्राज्ञं सर्वशस्त्रभृतां वरम्
मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि
हरितो युवनाश्वस्य हारितस्तत्सुतो ऽभवत्
नर्मदायां समुत्पन्नः संभूतिस्तत्सुतो ऽभवत्
बृहदशवो ऽनरण्यस्य हर्यश्वस्तत्सुतो ऽभवत्
प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम्
लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिन्दमम्
स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः
वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः
समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान्
यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः