कैकसी जनयत् पुत्रं रावणं राक्षसाधिपम्
पुष्पोत्कटा व्यजनयत् पुत्रान् विश्रवसः शुभान्
कुम्भीनसीं तथा कन्यां राकायां शृणुत प्रजाः
सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा
मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः
स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः
कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति मे श्रुतम्
वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान्
ऊर्ध्वरेतास्तत्र मुनिः शापाद् दक्षस्य नारदः
शशाप नारदं दक्षः क्रोधसंरक्तलोचनः
क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति
शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः
लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम्
अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम्
कन्या कीर्तिमती चैव योगमाता धृतव्रता
अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम्
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत
यमं च यमुनां चैव राज्ञी रैवतमेव च
शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम्
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः
बुधस्य गत्वा भवनं सोमपुत्रेण संगता
पितॄणां तृप्तिकर्तारं बुधादिति हि नः श्रुतम्
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत
सर्वे ते ऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम्
ज्येष्ठः पुत्रशतस्यापि दश पञ्च च तत्सुताः
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान्
अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयात् सुतम्