स देवकार्याणि सदा करोति पुरुषोत्तमः
तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः
त्रैलोक्यं वशमानीय बाधयामास वासवम्
त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः
ददाह बाणस्य पुरं शरेणैकेन लीलया
ययौ शरणमीशानं गोपतिं नीललोहितम्
निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम्
गाणपत्येन बाणं तं योजयामास भावतः
स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः
अनेकशिरसां तद्वत् खेचराणां महात्मनाम्
अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः
शुकीं श्येनीं च भासीं च सुग्रीवाङ्गृध्रिकां शुचिम्
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः
रक्षोगणं क्रोधवशा जनयामास सत्तमाः
प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम्
सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना
वैवस्वते ऽन्ते ह्यस्मिञ्छृण्वतां पापनाशनाः
अरिष्टनेमिपत्नीनामपत्यानीह षोडश
तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः
मन्वन्तरेषु नियतं तुल्यैः कार्यैः स्वनामभिः
कश्यपो गोत्रकामस्तु चचार सुमहत् तपः
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ
रैभ्यस्य जज्ञिरे रैभ्याः पुत्रा द्युतिमतां वराः
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः
नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः
प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान्
नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत्
तस्य पत्न्यश्चतस्त्रस्तु पौलस्त्यकुलवर्धिकाः
रूपलावण्यसंपन्नास्तासां वै शृणुत प्रजाः