लोकत्रयं भवता भावदत्तम्
त्रिविक्रमायामितविक्रमाय
पातालमूलं प्रविशेति भूयः
प्रवेक्ष्यसे कल्पदाहे पुनर्माम्
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः
ब्रह्मा शक्रो ऽथ भगवान् रुद्रादित्यमरुद्गणाः
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत
प्रह्लादेनासुरवरैर्विष्णुना विष्णुतत्परः
पूजाविधानं प्रह्लादं तदाहासौ चकार सः
प्रणतगतिं प्रणिधाय कर्मयोगम्
स देवकार्याणि सदा करोति पुरुषोत्तमः
तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः
त्रैलोक्यं वशमानीय बाधयामास वासवम्
त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः
ददाह बाणस्य पुरं शरेणैकेन लीलया
ययौ शरणमीशानं गोपतिं नीललोहितम्
निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम्
गाणपत्येन बाणं तं योजयामास भावतः
स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः
अनेकशिरसां तद्वत् खेचराणां महात्मनाम्
अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः
शुकीं श्येनीं च भासीं च सुग्रीवाङ्गृध्रिकां शुचिम्
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः
रक्षोगणं क्रोधवशा जनयामास सत्तमाः
प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम्
सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना
वैवस्वते ऽन्ते ह्यस्मिञ्छृण्वतां पापनाशनाः
अरिष्टनेमिपत्नीनामपत्यानीह षोडश
तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः
मन्वन्तरेषु नियतं तुल्यैः कार्यैः स्वनामभिः