प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम्
किमुत्पाता भवेत् कार्यमस्माकं किंनिमित्तकाः
नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत्
दधारासुरनाशार्थं माता तं त्रिदिवौकसाम्
स वासुदेवो देवानां मातुर्देहं समाविशत्
स विष्णुरदितेर्देहं स्वेच्छयाद्य समाविशत्
सो ऽवतीर्णो महायोगी पुराणपुरुषो हरिः
सत्तामात्रात्मरूपो ऽसौ विष्णुरंशेन जायते
माया भगवती लक्ष्मीः सो ऽवतीर्णो जनार्दनः
ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत्
तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम्
जगाम शरणं विश्वं पालयामास धर्मतः
असूत कश्यपाच्चैनं देवमातादितिः स्वयम्
नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम्
उपेन्द्रमिन्द्रप्रमुखा ब्रह्मा चर्षिगमैर्वृतः
समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन्
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते
यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम्
ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः
आस्थाय वामनं रूपं यज्ञदेशमथागमत्
ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः
स्वपादैर्विमितं देशमयाचत बलिं त्रिभिः
आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम्
निपातयामास जलं सुशीतलम्
प्रकर्तुकामः शरणं प्रपन्नम्
ये तत्र लोके निवसन्ति सिद्धाः
जगाम दिव्यावरणानि भूयः
गङ्गेत्युक्ता ब्रह्मणा व्योमसंस्था
दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति
स्वचेतसा यं प्रणमन्ति देवाः