धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम
सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम्
निधाय पुत्रे तद्राज्यं योगाभ्यासरतो ऽभवत्
ब्रह्मण्यो धार्मिको ऽत्यर्थं विजिग्ये ऽथ पुरन्दरम्
जगाम निर्जितो विष्णुं देवं शरणमच्युतम्
दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम्
प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम्
वासुदेवमनाद्यन्तमानन्दं व्योम केवलम्
आविर्बभूव योगात्मा देवमातुः पुरो हरिः
मेने कृतार्थमात्मानं तोषयामास केशवम्
जयाशेषकल्पामलानन्दरूप
नमो वासुदेवाय तुभ्यं नमस्ते
नमस्ते वराहाय भूयो नमस्ते
प्रभो विश्वयोने ऽथ भूयो नमस्ते
शिवायैकरूपाय भूयो नमस्ते
तोषितश्छन्दयामास वरेण प्रहसन्निव
त्वामेव पुत्रं देवानां हिताय वरये वरम्
दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत
दधार गर्भं देवानां माता नारायणं स्वयम्
उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे
प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम्
किमुत्पाता भवेत् कार्यमस्माकं किंनिमित्तकाः
नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत्
दधारासुरनाशार्थं माता तं त्रिदिवौकसाम्
स वासुदेवो देवानां मातुर्देहं समाविशत्
स विष्णुरदितेर्देहं स्वेच्छयाद्य समाविशत्
सो ऽवतीर्णो महायोगी पुराणपुरुषो हरिः
सत्तामात्रात्मरूपो ऽसौ विष्णुरंशेन जायते
माया भगवती लक्ष्मीः सो ऽवतीर्णो जनार्दनः
ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत्