निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति
उपतस्थुर्महादेवं नरसिंहाकृतिं च तम्
प्रददुः शंभवे शक्तिं भैरवायातितेजसे
क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः
ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः
महेश्वरांशसंभूता भुक्तिमुक्तिप्रदा त्वियम्
तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः
भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत्
सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा
मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते
प्रपेदिरे महादेवं तमेव शरणं हरिम्
माहात्म्यं देवदेवस्य भैरवस्यामितौजसः
विरोचनो नाम सुतो बभूव नृपतिः पुरा
पालयामास धर्मेण त्रैलोक्यं सचराचरम्
सनत्कुमारो भगवान् पुरं प्राप महामुनिः
ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत्
योगीश्वरो ऽद्य भगवान् यतो ऽसौ ब्रह्मवित् स्वयम्
ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम्
द्रष्टुमभ्यागतो ऽहं वै भवन्तं भाग्यवानसि
त्रिलोके धार्मिको नूनं त्वादृशो ऽन्यो न विद्यते
धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम
सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम्
निधाय पुत्रे तद्राज्यं योगाभ्यासरतो ऽभवत्
ब्रह्मण्यो धार्मिको ऽत्यर्थं विजिग्ये ऽथ पुरन्दरम्
जगाम निर्जितो विष्णुं देवं शरणमच्युतम्
दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम्
प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम्
वासुदेवमनाद्यन्तमानन्दं व्योम केवलम्
आविर्बभूव योगात्मा देवमातुः पुरो हरिः
मेने कृतार्थमात्मानं तोषयामास केशवम्