सहस्त्रशक्त्यासनसंस्थिताय
नमो जनानां हृदि संस्थिताय
नमः परान्ताय भवोद्भवाय
नमो ऽम्बिकायाः पतये मृडाय
नमो महेशाय नमः शिवाय
तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वाथ परमेश्वरः
संप्राप्य गाणपत्यं मे सन्निधाने वसामरः
नन्दीश्वरस्यानुचरः सर्वदुः खविवर्जितः
गणेश्वरा महादेवमन्धकं देवसन्निधौ
नीलकण्ठं जटामौलिं शूलासक्तमहाकरम्
उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव
नेक्षते ऽज्ञानजान् दोषान् गृह्णाति च गुणानपि
सकेशवः सहान्धको जगाम शङ्करान्तिकम्
समाधवं समातृकं जगाम निर्वृतिं हरः
जगाम यत्र शैलजा विमानमीशवल्लभा
अवाप सान्धकं सुखं प्रसादमन्धकं प्रति
पपात दण्डवत्क्षितौ ननाम पादपद्मयोः
यतः प्रधानपूरुषौ निहन्ति याखिलं जगत्
हिरण्मये ऽतिनिर्मले नमामि तामिमामजाम्
नमामि यत्र तामुमामशेषबेदवर्जिताम्
नमामि या गुणातिगा गिरीशपुत्रिकामिमाम्
सुरासुरैर्यदर्चितं नमामि ते पदाम्बुजम्
संस्तुता दैत्यपतिना पुत्रत्वे जगृहे ऽन्धकम्
जगामानुज्ञया शंभोः पातालं परमेश्वरः
समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः
कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि
बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम्
त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः
भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम्
दध्यौ नारायणं देवं क्षणात्प्रादुरभूद्धरिः