भवानीपादयुगले नारायणपदाम्बुजे
न पश्यन्ति जगत्सूतिं तद्भुतमिवाभवत्
मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ
तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः
स कालरुद्रो ऽभिजगाम देवः
जगाम देवो ऽपि सहस्त्रबाहुः
स्त्रिलोकदृष्टिर्भगवानिवार्कः
पपात देवोपरि पुष्पवृष्टिः
र् गणैरशेषैरमपप्रधानैः
विमानमारुह्य विहीनसत्त्वः
व्याजहार महादेवं भैरवं भूतिभूषणम्
त्वामृते भगवान् शक्तो हन्ता नान्यो ऽस्य विद्यते
स्तूयते विविधैर्मन्त्रर्वेदविद्भिर्विचक्षणैः
निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ
स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः
त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः
त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम्
महाविभूतिर्देवेशो जयाशेषजगत्पते
त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः
प्रणेमुरीश्वरं देवं भैरवं भवमोचकम्
अन्तरिक्षे ऽप्सरः सङ्घा नृत्यन्तिस्म मनोरमाः
उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम्
कालं कविं योगवियोगहेतुम्
भवन्तमेकं प्रणमामि रुद्रम्
वाय्वादिभेदैरखिलात्मरूप
त्वमन्तको योगिगणाभिजुष्टः
भवन्तमाहुः शिवमेव केचित्
स्वयं प्रभो ऽशेषविशेषहीनः
नीलग्रीवः स्तूयसे वेदविद्भिः
सदाशिवस्त्वं परमेश्वरो ऽसि