नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे
पराङ्मुखोरणात् तस्मात् पलायत महाजवः
हिताय लोके भक्तानामाजगामाथ मन्दरम्
समागम्योपतस्थुस्तं भानुमन्तमिव द्विजाः
ददर्श नन्दिनं देवं भैरवं केशवं शिवः
आघ्राय मूर्धनीशानः केशवं परिषस्वजे
ननाम शिरसा तस्य पादयोरीश्वरस्य सा
भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगो ऽवदत्
समास्ते भगवानीशो देव्या सह वरासने
आजग्मुर्मन्दरं द्रुष्टं देवदेवं त्रिलोचनम्
समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया
प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः
देवासनगतं देवं नारायणमनामयम्
प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः
को ऽन्वयं भ्ति वपुषा पङ्कजायतलोचनः
व्याजहार महायोगी भूताधिपतिरव्ययः
विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः
एको ऽयं वेद विश्वात्मा भवानी विष्णुरेव च
मामेव केशवं देवमाहुर्देवीमथाम्बिकाम्
कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः
स्त्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः
तारकः पुरुषो ह्यात्मा केवलं परमं पदम्
सान्ता सत्या सदानन्दा परं पदमिति श्रुतिः
एषैव सर्वभूतानां गतीनामुत्तमा गतिः
पश्याम्यशेषमेवेदं यस्तद् वेद स मुच्यते
एकमेव विजानीध्वं ततो यास्यथ निर्वृतिम्
ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः
पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि
यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः
नेमुर्नारायणं देवं देवीं च हिमशैलजाम्