तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा
तेजसा सूर्यसंकाशस्त्रैलोक्यं संहरन्निव
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम्
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत्
येनेयं विपुला सृष्टिर्वर्धते मम माधव
मोहयित्वा ममादेशात् संसारे विनिपातय
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय
महायज्ञपरान् विप्रान् दूरतः परिवर्जय
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय
प्राणायामादिषु रतान् दूरात् परिहरामलान्
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय
ईश्वराराधनरतान् मन्नियोगान्न मोहय
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत्
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत्
चराचराणि भूतानि यथापूर्वं ममाज्ञया
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः
न तेषु रमते धीरः पाषण्डी तेन जायते
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन्
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत्