आदेशं प्रत्यपद्यन्त शिरसासुरविद्विषोः
शिष्यानध्यापयामासुर्दर्शयित्वा फलानि तु
चकार शङ्करो भिक्षां हितायैषां द्विजैः सह
विमोहयंल्लोकमिमं जटामण्डलमण्डितः
नियोज्याङ्गभवं रुद्रं भैरवं दुष्टनिग्रहे
संस्थाप्य तत्र गणपान् देवानिन्द्रपुरोगमान्
स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम्
सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः
द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत
आहर्तुकामो गिरिजामाजगामाथ मन्दरम्
न्यषेधयदमेयात्मा कालरूपधरो हरः
शूलेनोरसि तं दैत्यमाजघान वृषध्वजः
नन्दिषेणादयो दैत्यैरन्धकैरभिनिर्जिताः
विनायको मेघवाहः सोमनन्दी च वैद्युतः
युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः
दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम्
कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः
युयोध भैरवो रुद्रः शूलमादाय भीषणम्
जगाम शरणं देवं वासुदेवमजं विभुम्
देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम्
नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे
पराङ्मुखोरणात् तस्मात् पलायत महाजवः
हिताय लोके भक्तानामाजगामाथ मन्दरम्
समागम्योपतस्थुस्तं भानुमन्तमिव द्विजाः
ददर्श नन्दिनं देवं भैरवं केशवं शिवः
आघ्राय मूर्धनीशानः केशवं परिषस्वजे
ननाम शिरसा तस्य पादयोरीश्वरस्य सा
भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगो ऽवदत्
समास्ते भगवानीशो देव्या सह वरासने
आजग्मुर्मन्दरं द्रुष्टं देवदेवं त्रिलोचनम्