महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः
उषित्वा मद्गृहे ऽवश्यं गच्छध्वमिति पण्डिताः
समीपं प्रापयामासुगौतमस्य महात्मनः
गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा
न पश्यति स्म सहसा तादृशं मुनयो ऽब्रुवन्
तावत् ते ऽन्नं न भोक्तव्यं गच्छामो वयमेव हि
जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा
केनापि हेतुना ज्ञात्वा शशापातीवकोपनः
बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः
अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ
कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हथः
किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति
गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः
संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ
अस्माभिः सर्व एवेमे गन्तारो नरकानपि
विमोहनाय शास्त्राणि करिष्यामो वृषध्वज
चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः
पञ्चरात्रं पाशुपतं तथान्यानि सहस्त्रशः
पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः
वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः
आदेशं प्रत्यपद्यन्त शिरसासुरविद्विषोः
शिष्यानध्यापयामासुर्दर्शयित्वा फलानि तु
चकार शङ्करो भिक्षां हितायैषां द्विजैः सह
विमोहयंल्लोकमिमं जटामण्डलमण्डितः
नियोज्याङ्गभवं रुद्रं भैरवं दुष्टनिग्रहे
संस्थाप्य तत्र गणपान् देवानिन्द्रपुरोगमान्
स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम्
सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः
द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत
आहर्तुकामो गिरिजामाजगामाथ मन्दरम्