कालेन हन्यते विष्णुः कालात्मा कालरूपधृक्
निवारितो ऽपि पुत्रेण युयोध हरिमव्ययम्
नखैर्विदारयामास प्रह्रादस्यैव पश्यतः
विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः
नृसिंहदेहसंभूतैः सिंहैर्नोता यमालयम्
स्वमेव परमं रूपं ययौ नारायणाह्वयम्
अभिषेकेण युक्तेन हिरण्याक्षमयोजयत्
लब्ध्वान्धकं महापुत्रं तपसाराध्य शङ्करम्
नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम्
गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम्
सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे
दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम्
स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम्
अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽसुरम्
निः सपत्नं तदा राज्यं तस्यासीद् विष्णुवैभवात्
तापसं नार्चयामास देवानां चैव मायया
शशापासुरराजानं क्रोधसंरक्तलोचनः
सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति
मुमोह राज्यसंसक्तः सो ऽपि शापबलात् ततः
पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति
नारायणस्य देवस्य प्रह्रादस्यामरद्विषः
संजातं तस्य विज्ञानं शरण्यं शरणं ययौ
नारायणे महायोगमवाप पुरुषोत्तमे
अवाप तन्महद् राज्यमन्धको ऽसुरपुङ्गवः
मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम्
ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः
अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी
अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम्
सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा
बभूव वृष्टिर्महती यथापूर्वमभूज्जगत्