प्रगृह्य पादेषु करैः संचिक्षेप ननाद च
पादेन ताडयामास वेगेनोरसि तं बली
गत्वा विज्ञापयामास प्रवृत्तमखिलं तथा
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा
आविर्बभूव सहसा मोहयन् दैत्यपुङ्गवान्
भाति नारायणो ऽनन्तो यथा मध्यन्दिने रविः
वधाय प्रेरयामास नरसिहस्य सो ऽसुरः
सहैव त्वनुजैः सर्वैर्नाशयाशु मयेरितः
युयुधे सर्वयत्नेन नरसिंहेन निर्जितः
ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च
न हानिमकरोदस्त्रं यथा देवस्य शूलिनः
मेने सर्वात्मकं देवं वासुदेवं सनातनम्
ननाम शिरसा देवं योगिनां हृदयेशयम्
निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाब्रवीत्
पुराणपुरुषो देवो महायोगी जगन्मयः
प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः
गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम्
प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया
समागतो ऽस्मद्भवनमिदानीं कालचोदितः
मा निन्दस्वैनमीशानं भूतानामेकमव्ययम्
कालेन हन्यते विष्णुः कालात्मा कालरूपधृक्
निवारितो ऽपि पुत्रेण युयोध हरिमव्ययम्
नखैर्विदारयामास प्रह्रादस्यैव पश्यतः
विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः
नृसिंहदेहसंभूतैः सिंहैर्नोता यमालयम्
स्वमेव परमं रूपं ययौ नारायणाह्वयम्
अभिषेकेण युक्तेन हिरण्याक्षमयोजयत्
लब्ध्वान्धकं महापुत्रं तपसाराध्य शङ्करम्
नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम्
गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम्