द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्ये ऽथ निस्तरम्
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी
विश्वाया विश्वदेवास्तु साध्या साध्यानजीजनत्
भानोस्तु भानवश्चैव मुहूर्ता वै मुहूर्तजाः
संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः
प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः
पुरोजवो ऽनिलस्य स्यादविज्ञातगतिस्तथा
विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः
कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत
विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च
वैवस्वते ऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः
हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम्
दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वासौ विविधैः स्तवै
बाधितास्ताडिता जग्मुर्देवदेवं पितामहम्
कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम्
सर्वदेवहितार्थाय जगाम कमलासनः
क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः
ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत
व्यापी सर्वामरवपुर्महायोगी सनातनः
वैराग्यैश्वर्यनिरतो रागातीतो निरञ्जनः
त्रातुमर्हस्यनन्तेश त्राता हि परमेश्वरः
प्रोवाचोन्निद्रपद्माक्षः पीतवासासुरद्विषः
इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः
बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः
हन्तुमर्हसि सर्वेषां त्वं त्रातासि जगन्मय
वधाय दैत्यमुख्यस्य सो ऽसृजत् पुरुषं स्वयम्
शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः
इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात्
महापुरुषमव्यक्तं ययौ दैत्यमहापुरम्