अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः
उवाच प्रणतान् देवान् प्राचेतसमथो हरः
संपूज्यः सर्वयज्ञेषु न निन्द्यो ऽहं विशेषतः
त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः
तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः
अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः
व्याजहार स्वयं दक्षमशेषजगतो हितम्
यदाचष्ट स्वयं देवः पालयैतदतन्द्रितः
पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः
स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः
चेतसा भावयुक्तेन स याति परमं पदम्
कर्मणा मनसा वाचा समाराधय यत्नतः
भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः
स देवदेवो भगवान् महादेवो न संशयः
मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः
एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते
इति मत्वा यजेद् देवं स याति परमां गतिम्
इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम्
समाश्रयेन्महादेवं शरण्यं ब्रह्मवादिनाम्
जगाम शरणं देवं गोपतिं कृत्तिवाससम्
द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ
पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह
ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा
भविष्यन्ति यथा पूर्वं शङ्करस्य प्रसादतः
शृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम्
ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान्
तदा ससर्ज भूतानि मैथुनेनैव धर्मतः
सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम्
षष्टिं दक्षो ऽसृजत् कन्या वैरण्यां वै प्रजापतिः
विंशत् सप्त च सोमाय चतस्त्रो ऽरिष्टनेमिने